६.३४.२८

इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ।
अङ्गदेन महामायस्तत्रैवान्तरधीयत ॥

अन्वयः

तदा then, घोरे terrific, भृशदारुणे violent, सङ्ग्रामे from the battlefield, अङ्गदेन by Angada, हताश्वः horses being killed, हतसारथिः charioteer killed, महामायः great cheater, इन्द्रजित्तु Indrajith, तत्स्रैव himself, अन्तरधीयत disappeared.

Summary

As the violent war was going on, the great cheat, Indrajith disappeared from there as Angada had already killed his horses and charioteer.

पदच्छेदः

इन्द्रजित्इन्द्रजित् (१.१)
तुतु (अव्ययः)
रथंरथ (२.१)
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
हताश्वोहत (√हन् + क्त)–अश्व (१.१)
हतसारथिःहत (√हन् + क्त)–सारथि (१.१)
अङ्गदेनअङ्गद (३.१)
महामायस्तत्रैवान्तरधीयतमहत्–माया (१.१)–तत्र (अव्ययः)–एव (अव्ययः)–अन्तरधीयत (√अन्तः-धा प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द्र जित्तु थं त्य क्त्वा
ता श्वो सा थिः
ङ्ग दे हा मा
स्त त्रै वान्त धी