६.३६.११

इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ।
उवाच परमप्रीतो हर्षयन्सर्वनैरृतान् ॥

अन्वयः

इन्द्रजित्तु Indrajith, आत्मनः himself, कर्म action, शयानौ on the bed, तौच both, समीक्ष्य reviewing, परमप्रीतः very happily, सर्वनैरृतान् to all Rakshasas, हर्षयन् making to rejoice, उवाच spoke.

M N Dutt

And Indrajit, seeing his own feat and them lying at length, spoke in excess of joy, gladdening all the Rākşasas.

Summary

Reviewing the scions lying on bed by his action, Indrajith caused extreme joy to all Rakshasas and spoke.

पदच्छेदः

इन्द्रजित्इन्द्रजित् (१.१)
त्वात्मनःतु (अव्ययः)–आत्मन् (६.१)
कर्मकर्मन् (२.१)
तौतद् (२.२)
शयानौशयान (√शी + शानच्, २.२)
समीक्ष्यसमीक्ष्य (√सम्-ईक्ष् + ल्यप्)
(अव्ययः)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
परमप्रीतोपरम–प्रीत (√प्री + क्त, १.१)
हर्षयन्हर्षयत् (√हर्षय् + शतृ, १.१)
सर्वनैरृतान्सर्व–नैरृत (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द्र जि त्त्वात्म नःर्म
तौ या नौ मीक्ष्य
वा प्री तो
र्ष न्सर्व नैरृ तान्