६.३६.५

निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ ।
रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ॥

M N Dutt

They were sighing like serpents; and were inert; and deprived of prowess; and washed in blood; and looking like to golden standards.

पदच्छेदः

निःश्वसन्तौनिःश्वसत् (√निः-श्वस् + शतृ, १.२)
यथायथा (अव्ययः)
सर्पौसर्प (१.२)
निश्चेष्टौनिश्चेष्ट (१.२)
मन्दविक्रमौमन्द–विक्रम (१.२)
रुधिरस्रावदिग्धाङ्गौरुधिर–स्राव–दिग्ध (√दिह् + क्त)–अङ्ग (१.२)
तापनीयाविवतापनीय (१.२)–इव (अव्ययः)
ध्वजौध्वज (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

निःश्व न्तौ था र्पौ
नि श्चे ष्टौन्द विक्र मौ
रुधि स्रा दि ग्धा ङ्गौ
ता नी याविध्व जौ