६.३७.१४

ततः पुष्पकमारोप्य सीतां त्रिजटया सह ।
रावणोऽकारयल्लङ्कां पताकाध्वजमालिनीम् ॥

पदच्छेदः

ततःततस् (अव्ययः)
पुष्पकम्पुष्पक (२.१)
आरोप्यआरोप्य (√आ-रोपय् + ल्यप्)
सीतांसीता (२.१)
त्रिजटयात्रिजटा (३.१)
सहसह (अव्ययः)
रावणोरावण (१.१)
ऽकारयल्अकारयत् (√कारय् लङ् प्र.पु. एक.)
लङ्कांलङ्का (२.१)
पताकाध्वजमालिनीम्पताका–ध्वज–मालिन् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः पुष्प मा रोप्य
सी तांत्रि या
रा णो ऽका ल्ल ङ्कां
ता काध्व मालि नीम्