६.३९.१५

शयानः शरतल्पेऽस्मिन्स्वशोणितपरिप्लुतः ।
शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन् ॥

अन्वयः

शरजालैः by the network of arrows, चितः lying, शोणितपरिप्लुतः blood flowing, अस्मिन् his, शरतल्पे bed of arrows, शयानः lying, सः he, अस्तम् his own, व्रजन् sinking, भास्करःइव like the sun, भासि remains shining.

M N Dutt

And lying down in the battle-field, bleeding and covered with arrows, you appear like the Sun when he has gone up the Setting-hill.

Summary

"Lying on the bed of arrows in the network of arrows, blood flowing out from the body he remains shining like the setting sun."

पदच्छेदः

शयानःशयान (√शी + शानच्, १.१)
शरतल्पेशर–तल्प (७.१)
ऽस्मिन्इदम् (७.१)
स्वशोणितपरिप्लुतःस्व–शोणित–परिप्लुत (√परि-प्लु + क्त, १.१)
शरजालैश्चितोशर–जाल (३.३)–चित (√चि + क्त, १.१)
भातिभाति (√भा लट् प्र.पु. एक.)
भास्करोभास्कर (१.१)
ऽस्तम्अस्त (२.१)
इवइव (अव्ययः)
व्रजन्व्रजत् (√व्रज् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

या नः ल्पेऽस्मि
न्स्व शोणि रिप्लु तः
जा लैश्चि तो भाति
भास्क रोऽस्तमिव्र जन्