६.४.३१

सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः ।
सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ॥

अन्वयः

सुषेणः Sushena, जाम्बवांश्चैव and also Jambavan, बहुभिः and many, ऋक्षैः Rsha's army, आवृताः surrounding, सुग्रीवम् Sugriva, पुरतः western side, कृत्वा placing, जघनम् the army of vanaras, सम्ररक्षतुः guarding

M N Dutt

Taking Sugriva before them, Susena, and Jāmbavān, surrounded by innumerable bears, protected the rear (of the army).

Summary

Sushena, and Jambavan surrounded by the army of Rshaba were guarding by placing on the western side.

पदच्छेदः

सुषेणोसुषेण (१.१)
जाम्बवांश्चैवजाम्बवन्त् (१.१)–च (अव्ययः)–एव (अव्ययः)
ऋक्षैर्ऋक्ष (३.३)
बहुभिर्बहु (३.३)
आवृतःआवृत (√आ-वृ + क्त, १.१)
सुग्रीवंसुग्रीव (२.१)
पुरतःपुरतस् (अव्ययः)
कृत्वाकृत्वा (√कृ + क्त्वा)
जघनंजघन (२.१)
संररक्षतुःसंररक्षतुः (√सम्-रक्ष् लिट् प्र.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु षे णो जाम्ब वां श्चै
क्षैर्बहुभि रावृ तः
सु ग्री वंपु तः कृ त्वा
नं संक्ष तुः