६.४.३५

सागरौघनिभं भीमं तद्वानरबलं महत् ।
निःससर्प महाघोषं भीमवेग इवार्णवः ॥

पदच्छेदः

सागरौघनिभंसागर–ओघ–निभ (१.१)
भीमंभीम (१.१)
तद्तद् (१.१)
वानरबलंवानर–बल (१.१)
महत्महत् (१.१)
निःससर्पनिःससर्प (√निः-सृप् लिट् प्र.पु. एक.)
महाघोषंमहत्–घोष (१.१)
भीमवेगभीम–वेग (१.१)
इवार्णवःइव (अव्ययः)–अर्णव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा रौनि भं भी मं
द्वा लं हत्
निःर्प हा घो षं
भी वे वार्ण वः