६.४.५०

एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि ।
इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् ॥

पदच्छेदः

एवम्एवम् (अव्ययः)
आर्यआर्य (८.१)
समीक्ष्यैतान्समीक्ष्य (√सम्-ईक्ष् + ल्यप्)–एतद् (२.३)
प्रीतोप्रीत (√प्री + क्त, १.१)
भवितुम्भवितुम् (√भू + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )
इतिइति (अव्ययः)
भ्रातरम्भ्रातृ (२.१)
आश्वास्यआश्वास्य (√आ-श्वासय् + ल्यप्)
हृष्टःहृष्ट (√हृष् + क्त, १.१)
सौमित्रिर्सौमित्रि (१.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मार्य मी क्ष्यै ता
न्प्री तोवितुर्हसि
ति भ्रा मा श्वास्य
हृ ष्टः सौ मित्रिब्र वीत्