६.४.७५

वेलावनमुपागम्य ततस्ते हरिपुंगवाः ।
विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः ॥

अन्वयः

ततः then, ते they, हरिपुङ्गवाः best of monkeys, वेलावनम्forest close to the sea , उपागम्य having arrived, महोदधेः mighty ocean , परं पारम् the other side , काङ्क्षमाणाः desiring to reach, निविष्टाश्च stood here and there

M N Dutt

There upon, reaching the shore, those leading monkeys engaged in concerning a plan to cross over the vastly deep.

Summary

Then the heroic monkeys having arrived at the forest close to the ocean stood there desiring to reach the other shore.

पदच्छेदः

वेलावनम्वेला–वन (२.१)
उपागम्यउपागम्य (√उपा-गम् + ल्यप्)
ततस्तेततस् (अव्ययः)–तद् (१.३)
हरिपुंगवाःहरि–पुंगव (१.३)
विनिविष्टाःविनिविष्ट (√विनि-विश् + क्त, १.३)
परंपर (२.१)
पारंपार (२.१)
काङ्क्षमाणाकाङ्क्षमाण (√काङ्क्ष् + शानच्, १.१)
महोदधेःमहत्–उदधि (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वे लामु पाम्य
स्तेरि पुं वाः
विनि वि ष्टाः रं पा रं
काङ्क्ष मा णा हो धेः