६.४.८८

ददृशुस्ते महात्मानो वाताहतजलाशयम् ।
अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः ।
भ्रान्तोर्मिजलसंनादं प्रलोलमिव सागरम् ॥

M N Dutt

There beheld those high-souled monkeys the mighty main agitated by the Wind and muttering as if with the Upheaval of the waves.

पदच्छेदः

ददृशुस्तेददृशुः (√दृश् लिट् प्र.पु. बहु.)–तद् (१.३)
महात्मानोमहात्मन् (१.३)
वाताहतजलाशयम्वात–आहत (√आ-हन् + क्त)–जलाशय (२.१)
अनिलोद्धूतम्अनिल–उद्धूत (√उत्-धू + क्त, २.१)
आकाशेआकाश (७.१)
प्रवल्गन्तम्प्रवल्गत् (√प्र-वल्ग् + शतृ, २.१)
इवोर्मिभिःइव (अव्ययः)–ऊर्मि (३.३)
भ्रान्तोर्मिजलसंनादंभ्रान्त (√भ्रम् + क्त)–ऊर्मि–जल–संनाद (२.१)
प्रलोलम्प्रलोल (२.१)
इवइव (अव्ययः)
सागरम्सागर (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
दृ शु स्ते हा त्मा नो वा ता
ला यम्नि लो द्धू मा का शे
प्रल्गमि वोर्मि भिः भ्रा न्तोर्मि
सं ना दंप्र लोमि सा रम्