६.४०.१३

विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् ।
लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः ॥

अन्वयः

धर्मात्मा righteous, विभीषणस्तु Vibheeshana also, शरैः arrows, चितम् mind, रामस्य Rama's, गात्रम् limbs, लक्ष्मणस्यच and Lakshmana's, दृष्टवा observing, तदा then, व्यथितः grievous, बभूव remained.

M N Dutt

Then the righteous Vibhīșaņa, viewing Rama's as well as Laksmana's body pierced with arrows, was exceedingly aggrieved.

Summary

On seeing the body of Rama and Lakshmana fully covered by arrows, Vibheeshana also became piteous and sad.

पदच्छेदः

विभीषणस्तुविभीषण (१.१)–तु (अव्ययः)
रामस्यराम (६.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
गात्रंगात्र (२.१)
शरैश्चितम्शर (३.३)–चित (√चि + क्त, २.१)
लक्ष्मणस्यलक्ष्मण (६.१)
(अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
व्यथितेन्द्रियःव्यथित (√व्यथ् + क्त)–इन्द्रिय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि भीस्तु रास्य
दृ ष्ट्वा गा त्रं रैश्चि तम्
क्ष्मस्य र्मा त्मा
भूव्यथि तेन्द्रि यः