६.४४.२

क्रोधमूर्छितरूपस्तु ध्नुवन्परमकार्मुकम् ।
दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥

अन्वयः

शत्रूणाम् by enemies, कर्म deeds, दृष्टवा looking, क्रोधमूर्चितरूपः exhibited violent anger, परमकार्मुकम् highly furious, धून्वन् bow, सारथिम् charioteer, वाक्यम् words, अब्रवीत् spoke.

M N Dutt

And transported with passion, he, twanging his mighty bow seeing that feat of his foe, addressed his charioteer saying.

Summary

Looking at the deeds of enemies, deluded with violent anger, Akampana spoke these words holding the bow and looking at the charioteer.

पदच्छेदः

क्रोधमूर्छितरूपस्तुक्रोध–मूर्छित (√मूर्छय् + क्त)–रूप (१.१)–तु (अव्ययः)
धुन्वन्धुन्वत् (√धू + शतृ, १.१)
परमकार्मुकम्परम–कार्मुक (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
तुतु (अव्ययः)
कर्मकर्मन् (२.१)
शत्रूणांशत्रु (६.३)
सारथिंसारथि (२.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्रो मूर्छि रूस्तु
ध्नुन्प कार्मु कम्
दृ ष्ट्वातुर्म त्रू णां
सा थिं वाक्यब्र वीत्