६.४४.३३

अन्योन्यं प्रममन्तुस्ते विविशुर्नगरं भयात् ।
पृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः ॥

अन्वयः

ते they, भयात् in fear, पृष्ठतः covertly, मुहुर्मुहुः again and again, प्रेक्षमाणाः looking back, सम्मूढाः bewildered, अन्योन्यम् one another, प्रममन्थु: crushing, नगरम् city, विविशुः went.

M N Dutt

And crushing down each other, they entered the city in a panic, momentarily casting their looks behind them.

Summary

Again, and again looking back in fear, covertly, bewildered, crushing one another, they went into the Lanka city.

पदच्छेदः

अन्योन्यंअन्योन्य (२.१)
प्रममन्थुस्तेप्रममन्थुः (√प्र-मथ् लिट् प्र.पु. बहु.)–तद् (१.३)
विविशुर्विविशुः (√विश् लिट् प्र.पु. बहु.)
नगरंनगर (२.१)
भयात्भय (५.१)
पृष्ठतस्तेपृष्ठतस् (अव्ययः)–तद् (१.३)
सुसंमूढाःसु (अव्ययः)–संमूढ (√सम्-मुह् + क्त, १.३)
प्रेक्षमाणाप्रेक्षमाण (√प्र-ईक्ष् + शानच्, १.३)
मुहुर्मुहुर् (अव्ययः)
मुहुःमुहुर् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्यो न्यंप्र न्तु स्ते
विवि शुर्न रं यात्
पृष्ठ स्तेसु सं मू ढाः
प्रेक्ष मा णामु हुर्मु हुः