६.४४.७

न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ।
अकम्पनशरैर्भग्नाः सर्व एव प्रदुद्रुवुः ॥

अन्वयः

वानराः Vanaras, आहवे counter, स्थातुम् to stand, नशेकुः not fight, योद्धुम् in battle, किंपुनः What to say again, सर्वेएव all, अकम्पनशरैः by Akampana's arrows, भग्नाः shattered, विदुद्रुवुः took to their heels.

M N Dutt

Thereat the monkeys could not so much as maintain their ground in the field, and how could they fight?

Summary

The Vanaras could not counter or stand nor fight in battle. What to say more? Shattered by Akampana's arrows, they all took to their heels.

पदच्छेदः

(अव्ययः)
स्थातुंस्थातुम् (√स्था + तुमुन्)
वानराःवानर (१.३)
शेकुःशेकुः (√शक् लिट् प्र.पु. बहु.)
किं (२.१)
पुनर्पुनर् (अव्ययः)
योद्धुम्योद्धुम् (√युध् + तुमुन्)
आहवेआहव (७.१)
अकम्पनशरैर्अकम्पन–शर (३.३)
भग्नाःभग्न (√भञ्ज् + क्त, १.३)
सर्वसर्व (१.३)
एवएव (अव्ययः)
प्रदुद्रुवुःप्रदुद्रुवुः (√प्र-द्रु लिट् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्था तुं वा राः शे कुः
किंपु र्योद्धु मा वे
म्प रै र्भ ग्नाः
र्वप्र दुद्रु वुः