६.४५.४०

अथ घोषः सुतुमुलो हरीणां समजायत ।
वृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः ॥

अन्वयः

अथ and then वृक्षान् trees, आरुजतांचैव for the sake of fighting, गुर्वीः heavy, शिलाः rocks, आगृह्णताम् taking hold, हरीणाम् monkeys, सुतुमुलः exceedingly, घोषः tumultuous, समजायत arose.

Summary

And when the monkeys took hold of heavy rocks and trees for fighting exceedingly tumultuous clamor arose.

पदच्छेदः

अथअथ (अव्ययः)
घोषःघोष (१.१)
सुतुमुलोसु (अव्ययः)–तुमुल (१.१)
हरीणांहरि (६.३)
समजायतसमजायत (√सम्-जन् लङ् प्र.पु. एक.)
वृक्षान्वृक्ष (२.३)
आरुजतांआरुजत् (√आ-रुज् + शतृ, ६.३)
चैव (अव्ययः)–एव (अव्ययः)
गुर्वीश्चागृह्णतांगुरु (२.३)–च (अव्ययः)–आगृह्णत् (√आ-ग्रह् + शतृ, ६.३)
शिलाःशिला (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

घो षःसुतुमु लो
री णां जा
वृ क्षा नारु तां चै
गु र्वी श्चा गृह्ण तांशि लाः