६.४६.२०

अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः ।
चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥

अन्वयः

प्रहस्तः Prahastha, तत् then कर्म exploit, अमृष्यमाणः intolerant, रथम् chariot, आश्रितः got on to, धनुष्पाणिः bow in hand, वनौकसाम् monkeys, घोरम् dreadful, कदनम् havoc, चकार caused.

M N Dutt

And not brooking that feat, Prahasta, mounted on a car, taking a bow in his hand, fell to spreading a dreadful havoc among the rangers of the woods.

Summary

Then intolerant of the exploit, Prahastha got on to the chariot with bow in hand and caused dreadful havoc among the monkeys.

पदच्छेदः

अमृष्यमाणस्तत् (अव्ययः)–मृष्यमाण (√मृष् + शानच्, १.१)–तद् (२.१)
कर्मकर्मन् (२.१)
प्रहस्तोप्रहस्त (१.१)
रथम्रथ (२.१)
आस्थितःआस्थित (√आ-स्था + क्त, १.१)
चकारचकार (√कृ लिट् प्र.पु. एक.)
कदनंकदन (२.१)
घोरंघोर (२.१)
धनुष्पाणिर्धनुष्पाणि (१.१)
वनौकसाम्वनौकस् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मृष्य मा स्त त्कर्म
प्र स्तो मास्थि तः
का नं घो रं
नु ष्पा णिर्व नौ साम्