६.४६.३३

अपारयन्वारयितुं प्रत्यगृह्णान्निमीलितः ।
यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ॥

पदच्छेदः

अपारयन् (अव्ययः)–पारयत् (√पारय् + शतृ, १.१)
वारयितुंवारयितुम् (√वारय् + तुमुन्)
प्रत्यगृह्णान्निमीलितःप्रत्यगृह्णात् (√प्रति-ग्रह् लङ् प्र.पु. एक.)–निमीलित (√नि-मीलय् + क्त, १.१)
यथैवयथा (अव्ययः)–एव (अव्ययः)
गोवृषोगो–वृष (१.१)
वर्षंवर्ष (२.१)
शारदंशारद (२.१)
शीघ्रम्शीघ्रम् (अव्ययः)
आगतम्आगत (√आ-गम् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पा न्वायि तुं
प्रत्य गृ ह्णान्नि मीलि तः
थै गोवृ षो र्षं
शा दं शीघ्र मा तम्