६.४६.३४

एवमेव प्रहस्तस्य शरवर्षं दुरासदम् ।
निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ॥

अन्वयः

शीघ्रम् quickly, आगतम् downpour, शारदम् autumnal, वर्षम् rain, गोवृषः mighty bull, यथैव in the same way, एवमेव precisely, नीलः Nila, प्रहस्तस्य Prahastha's, दुरासदम् difficult to face, सहसा fierce, शरवर्षम् rain of arrows, निमीलिताक्षः with eyes closed, सेहे tolerated.

Summary

Just as a mighty bull faces sudden downpour of autumnal rain, in the same way Nila precisely tolerated the rain of arrows of Prahastha, which are difficult to face, with eyes closed.

पदच्छेदः

एवम्एवम् (अव्ययः)
एवएव (अव्ययः)
प्रहस्तस्यप्रहस्त (६.१)
शरवर्षंशर–वर्ष (२.१)
दुरासदम्दुरासद (२.१)
निमीलिताक्षःनिमीलित (√नि-मीलय् + क्त)–अक्ष (१.१)
सहसासहस् (३.१)
नीलःनील (१.१)
सेहेसेहे (√सह् लिट् प्र.पु. एक.)
सुदारुणम्सु (अव्ययः)–दारुण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मेप्र स्तस्य
र्षंदु रा दम्
नि मीलि ता क्षः सा
नी लः से हेसु दारु णम्