६.४६.५१

ततस्तु नीलो विजयी महाबलः; प्रशस्यमानः स्वकृतेन कर्मणा ।
समेत्य रामेण सलक्ष्मणेन; प्रहृष्टरूपस्तु बभूव यूथपः ॥

M N Dutt

Then the highly powerful and victorious Nila, leader of forces, on being extolled with gracious offices, and on being joined by Rāma and Laks maņa looked exceedingly exhilarated.

पदच्छेदः

ततस्तुततस् (अव्ययः)–तु (अव्ययः)
नीलोनील (१.१)
विजयीविजयिन् (१.१)
महाबलःमहत्–बल (१.१)
प्रशस्यमानःप्रशस्यमान (√प्र-शंस् + शानच्, १.१)
स्वकृतेनस्व–कृत (√कृ + क्त, ३.१)
कर्मणाकर्मन् (३.१)
समेत्यसमेत्य (√समा-इ + ल्यप्)
रामेणराम (३.१)
सलक्ष्मणेन (अव्ययः)–लक्ष्मण (३.१)
प्रहृष्टरूपस्तुप्रहृष्ट (√प्र-हृष् + क्त)–रूप (१.१)–तु (अव्ययः)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
यूथपःयूथप (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
स्तु नी लोवि यी हा लः
प्रस्य मा नःस्वकृ तेर्म णा
मेत्य रा मेक्ष्म णे
प्र हृष्ट रूस्तु भू यू पः