६.४६.७

बहवो राक्षसा युद्धे बहून्वानरयूथपान् ।
वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥

अन्वयः

युद्धे in war, बहवः many, राक्षसाः Rakshasas, बहून् many, वानरयूधपान् Vanara leaders, बहवः many, वानराः Vanaras, बहून् many, राक्षसांश्चापि Rakshasas also, निजघ्नुः killed.

M N Dutt

And many Rākşasas in conflict slew many a powerful monkey, and the monkeys on their part slaughtered many a Rākşasa.

Summary

In the course of war many Rakshasas killed many Vanara leaders and many Vanaras killed many Rakshasas also.

पदच्छेदः

बहवोबहु (१.३)
राक्षसाराक्षस (१.३)
युद्धेयुद्ध (७.१)
बहून्बहु (२.३)
वानरयूथपान्वानर–यूथप (२.३)
वानरावानर (१.३)
राक्षसांश्चापिराक्षस (२.३)–च (अव्ययः)–अपि (अव्ययः)
निजघ्नुर्निजघ्नुः (√नि-हन् लिट् प्र.पु. बहु.)
बहवोबहु (१.३)
बहून्बहु (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वो राक्ष सा यु द्धे
हू न्वा यू पान्
वा रा राक्ष सां श्चापि
नि घ्नुर्ब वो हून्