६.४७.१०७

अथैनं वैष्णवं भागं मानुषं देहमास्थितम् ।
विसंज्ञं लक्ष्मणं दृष्ट्वा रावणो विस्मितोऽभवत् ॥

पदच्छेदः

अथैनंअथ (अव्ययः)–एनद् (२.१)
वैष्णवंवैष्णव (२.१)
भागंभाग (२.१)
मानुषंमानुष (२.१)
देहम्देह (२.१)
आस्थितम्आस्थित (√आ-स्था + क्त, २.१)
विसंज्ञंविसंज्ञ (२.१)
लक्ष्मणंलक्ष्मण (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
रावणोरावण (१.१)
विस्मितोविस्मित (√वि-स्मि + क्त, १.१)
ऽभवत्अभवत् (√भू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थै नं वैष्ण वं भा गं
मानु षं दे मास्थि तम्
वि सं ज्ञंक्ष्म णं दृ ष्ट्वा
रा णो विस्मि तोऽभ वत्