६.४७.११३

तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ।
रावणस्य रथे तस्मिन्स्थानं पुनरुपागमत् ॥

अन्वयः

साशक्तिः that power, युधि in war, दुर्जयम् vanquish, सौमित्रिम् Saumithri, रावणस्य Ravana's, तस्मिन् रथे in his chariot, पुनः again, स्थानम् position, उपागता returning back.

M N Dutt

Then that dart, renouncing Sumitra's son vanquished in fight, again sought its place in Ravana's car.

Summary

That power returned back to Ravana's chariot to its position, leaving Lakshmana, who was difficult to vanquish.

पदच्छेदः

तंतद् (२.१)
समुत्सृज्यसमुत्सृज्य (√समुत्-सृज् + ल्यप्)
सातद् (१.१)
शक्तिःशक्ति (१.१)
सौमित्रिंसौमित्रि (२.१)
युधियुध् (७.१)
दुर्जयम्दुर्जय (२.१)
रावणस्यरावण (६.१)
रथेरथ (७.१)
तस्मिन्तद् (७.१)
स्थानंस्थान (२.१)
पुनर्पुनर् (अव्ययः)
उपागमत्उपागमत् (√उप-गम् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं मु त्सृज्य सा क्तिः
सौ मि त्रिंयुधि दुर्ज यम्
रास्य थेस्मि
न्स्था नंपुरु पा मत्