६.४७.११५

आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ।
विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥

अन्वयः

शत्रुसूदनः could destroy foes, लक्ष्मणः Lakshmana, अमीमांस्यम् immeasurable, विष्णोःभागम् part of Vishnu, आत्मानम् himself, प्रत्यनुस्मरन् again remembering, आश्वस्तःच from consciousness, विशल्यःच relieved of wounds.

M N Dutt

That finisher of foes-Lakşmaņa-recovered the exercise of his senses, and had his entire person perfectly healed, on his recalling that he verily was a part and parcel of Vişņu himself.

Summary

Lakshmana who could destroy foes, recovering from unconsciousness, relieved of wounds again remembered himself to be part of Vishnu of immeasurable power.

पदच्छेदः

आश्वस्तश्चआश्वस्त (√आ-श्वस् + क्त, १.१)–च (अव्ययः)
विशल्यश्चविशल्य (१.१)–च (अव्ययः)
लक्ष्मणःलक्ष्मण (१.१)
शत्रुसूदनःशत्रु–सूदन (१.१)
विष्णोर्विष्णु (६.१)
भागम्भाग (२.१)
अमीमांस्यम्अमीमांस्य (२.१)
आत्मानंआत्मन् (२.१)
प्रत्यनुस्मरन्प्रत्यनुस्मरत् (√प्रत्यनु-स्मृ + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्व स्तश्चवि ल्यश्च
क्ष्म णःत्रु सू नः
वि ष्णो र्भा मी मांस्य
मा त्मा नं प्रत्य नुस्म रन्