६.४७.१२५

राक्षसेनाहवे तस्य ताडितस्यापि सायकैः ।
स्वभावतेजोयुक्तस्य भूयस्तेजो व्यवर्धत ॥

अन्वयः

राक्षसेन by the Rakshasa, आहवे discharged, सायकैः arrows, ताडितस्यापि when hurt him also, स्वभावतेजोयुक्तस्य by nature endowed with energy, तस्य his, तेजः energy, भूयः exceedingly, अभ्यवर्धत went on increasing.

M N Dutt

Although struck and resisted by the Rākşasa with arrows, the energy of that one, endowed by nature with prowess-increased greatly.

Summary

Even though Hanuman was hurt by the arrows discharged by the Rakshasa king, being endowed with energy by nature, his energy went on increasing.

पदच्छेदः

राक्षसेनाहवेराक्षस (३.१)–आहव (७.१)
तस्यतद् (६.१)
ताडितस्यापिताडित (√ताडय् + क्त, ६.१)–अपि (अव्ययः)
सायकैःसायक (३.३)
स्वभावतेजोयुक्तस्यस्वभाव–तेजस्–युक्त (√युज् + क्त, ६.१)
भूयस्तेजोभूयस् (१.१)–तेजस् (१.१)
व्यवर्धतव्यवर्धत (√वि-वृध् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राक्ष से ना वेस्य
ताडि स्यापि सा कैः
स्व भा ते जो यु क्तस्य
भू स्ते जोव्यर्ध