६.४७.१३२

कृतं त्वया कर्म महत्सुभीमं; हतप्रवीरश्च कृतस्त्वयाहम् ।
तस्मात्परिश्रान्त इति व्यवस्य; न त्वं शरैर्मृत्युवशं नयामि ॥

अन्वयः

त्वया by you, सुभीमम् exceedingly difficult, महत् great, कर्म task, कृतम् done, त्वया by you, अहम् I, हतप्रवीरः mighty heroes killed, कृतःच done, तस्मात् therefore, परिशान्तःइति exhausted, व्यवस्य declare, त्वाम् you, मृत्युवशम् to death, ननयामि not sent.

M N Dutt

You have in battle) performed high and dreadful deeds, and have also (in-the conflict) slain my foremost heroes. And therefore I know you are fatigued. And for this reason it is that I will not with my shafts bring you to the door of Death.

Summary

A great task of killing mighty heroes has been accomplished by you. Therefore, you are exhausted. I declare that I will not send you to death.

पदच्छेदः

कृतंकृत (√कृ + क्त, १.१)
त्वयात्वद् (३.१)
कर्मकर्मन् (१.१)
महत्महत् (१.१)
सुभीमंसु (अव्ययः)–भीम (१.१)
हतप्रवीरश्चहत (√हन् + क्त)–प्रवीर (१.१)–च (अव्ययः)
कृतस्त्वयाहम्कृत (√कृ + क्त, १.१)–त्वद् (३.१)–मद् (१.१)
तस्मात्तस्मात् (अव्ययः)
परिश्रान्तपरिश्रान्त (√परि-श्रम् + क्त, १.१)
इतिइति (अव्ययः)
व्यवस्यव्यवस्य (√व्यव-सा + ल्यप्)
(अव्ययः)
त्वांत्वद् (२.१)
शरैर्शर (३.३)
मृत्युवशंमृत्यु–वश (२.१)
नयामिनयामि (√नी लट् उ.पु. )

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
कृ तंत्व यार्मत्सु भी मं
प्र वीश्चकृस्त्व या हम्
स्मात्प रि श्रान्त तिव्यस्य
त्वं रै र्मृत्यु शं यामि