६.४७.२४

यत्रैतदिन्दुप्रतिमं विभाति;च्छत्त्रं सितं सूक्ष्मशलाकमग्र्यम् ।
अत्रैष रक्षोऽधिपतिर्महात्मा; भूतैर्वृतो रुद्र इवावभाति ॥

पदच्छेदः

यत्रैतद्यत्र (अव्ययः)–एतद् (१.१)
इन्दुप्रतिमंइन्दु–प्रतिमा (१.१)
विभातिविभाति (√वि-भा लट् प्र.पु. एक.)
छत्त्रंछत्त्र (१.१)
सितंसित (१.१)
सूक्ष्मशलाकम्सूक्ष्म–शलाका (१.१)
अग्र्यम्अग्र्य (१.१)
अत्रैषअत्र (अव्ययः)–एतद् (१.१)
रक्षोऽधिपतिर्रक्षस्–अधिपति (१.१)
महात्मामहात्मन् (१.१)
भूतैर्भूत (३.३)
वृतोवृत (√वृ + क्त, १.१)
रुद्ररुद्र (१.१)
इवावभातिइव (अव्ययः)–अवभाति (√अव-भा लट् प्र.पु. एक.)

छन्दः

इन्द्रवज्रा [११: ततजगग]

छन्दोविश्लेषणम्

१०११
त्रै दि न्दुप्रति मंवि भाति
च्छ त्त्रंसि तं सूक्ष्म ला ग्र्यम्
त्रै क्षोऽधि तिर्म हा त्मा
भू तैर्वृ तो रुद्र वा भाति