६.४७.३५

तच्छैलशृङ्गं बहुवृक्षसानुं; प्रगृह्य चिक्षेप निशाचराय ।
तमापतन्तं सहसा समीक्ष्य; बिभेद बाणैस्तपनीयपुङ्खैः ॥

अन्वयः

बहुवृक्षसानुम् whose slopes were crowded with many trees, तत् that, शैलशृङ्गम् mountain top, प्रगृह्य seizing, निशाचराय at night rangers, चिक्षेप hurled, आपतन्तम् towards, तम् him, समीक्ष्य watching, सहसा quickly, तपनीयपुङ्खैः arrows with gold shafts, बाणैः arrows, चिच्छेद broke.

M N Dutt

Taking up that mountain-peak having its sides covered with innumerable trees, he hurled it at the night ranger. And seeing it descend swiftly, (Rāvana) in battle severed the same by means of gold-knobbed shafts.

Summary

Seizing mountain tops whose slopes were filled with trees Sugriva hurled at the night rangers. Watching this Ravana quickly broke them with his arrows fixed with golden shafts.

पदच्छेदः

तच्छैलशृङ्गंतद् (२.१)–शैल–शृङ्ग (२.१)
बहुवृक्षसानुंबहु–वृक्ष–सानु (२.१)
प्रगृह्यप्रगृह्य (√प्र-ग्रह् + ल्यप्)
चिक्षेपचिक्षेप (√क्षिप् लिट् प्र.पु. एक.)
निशाचरायनिशाचर (४.१)
तम्तद् (२.१)
आपतन्तंआपतत् (√आ-पत् + शतृ, २.१)
सहसासहस् (३.१)
समीक्ष्यसमीक्ष्य (√सम्-ईक्ष् + ल्यप्)
बिभेदबिभेद (√भिद् लिट् प्र.पु. एक.)
बाणैस्तपनीयपुङ्खैःबाण (३.३)–तपनीय–पुङ्ख (३.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
च्छै शृ ङ्गंहु वृक्ष सा नुं
प्र गृह्य चि क्षेनि शा रा
मा न्तं सा मीक्ष्य
बि भे बा णैस्त नी पु ङ्खैः