६.४७.४४

ततो महात्मा स धनुर्धनुष्मा;नादाय रामः सहरा जगाम ।
तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य; उवाच वाक्यं परमार्थयुक्तम् ॥

अन्वयः

ततः that, महात्मा great soul, धनुष्मान् holding bow, सःरामः that Rama, धनुः bow, आदाय taking, सहसा immediately, जगाम went, लक्ष्मणः Lakshmana, तम् him, अभ्युपेत्य addressed, प्राञ्जलिः with folded hand s, परमार्थयुक्तम् consonant with truth, वाक्यम् words, उवाच spoken.

Summary

The great soul Rama who was holding a bow went seizing it. Lakshmana approached him immediately with folded hands and addressed Rama with words consonant with truth.

पदच्छेदः

ततोततस् (अव्ययः)
महात्मामहात्मन् (१.१)
तद् (१.१)
धनुर्धनुस् (२.१)
धनुष्मान्धनुष्मत् (१.१)
आदायआदाय (√आ-दा + ल्यप्)
रामःराम (१.१)
सहसासहस् (३.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
तंतद् (२.१)
लक्ष्मणःलक्ष्मण (१.१)
प्राञ्जलिर्प्राञ्जलि (१.१)
अभ्युपेत्यअभ्युपेत्य (√अभ्युप-इ + ल्यप्)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
वाक्यंवाक्य (२.१)
परमार्थयुक्तम्परम–अर्थ–युक्त (√युज् + क्त, २.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
तो हा त्मा नुर्ध नु ष्मा
ना दा रा मः रा गा
तंक्ष्म णः प्राञ्जलिभ्यु पेत्य
वा वा क्यं मार्थ यु क्तम्