६.४८.१४

कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ।
रामेणाभिनिरस्तस्य संग्रामोऽस्मिन्सुदारुणे ॥

पदच्छेदः

कुम्भकर्णःकुम्भकर्ण (१.१)
सदासदा (अव्ययः)
शेतेशेते (√शी लट् प्र.पु. एक.)
मूढोमूढ (√मुह् + क्त, १.१)
ग्राम्यसुखेग्राम्य–सुख (७.१)
रतःरत (√रम् + क्त, १.१)
रामेणाभिनिरस्तस्यराम (३.१)–अभिनिरस्त (√अभिनिः-अस् + क्त, ६.१)
संग्रामोसंग्राम (१.१)
ऽस्मिन्इदम् (७.१)
सुदारुणेसु (अव्ययः)–दारुण (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कुम्भ र्णः दा शे ते
मू ढो ग्राम्यसु खे तः
रा मे णाभिनि स्तस्य
सं ग्रा मो ऽस्मिन्सु दारु णे