६.४८.१५

भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ।
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ॥

पदच्छेदः

भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
(अव्ययः)
मेमद् (६.१)
शोकःशोक (१.१)
कुम्भकर्णेकुम्भकर्ण (७.१)
विबोधितेविबोधित (√वि-बोधय् + क्त, ७.१)
किं (२.१)
करिष्याम्यहंकरिष्यामि (√कृ लृट् उ.पु. )–मद् (१.१)
तेनतद् (३.१)
शक्रतुल्यबलेनशक्र–तुल्य–बल (३.१)
हिहि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विष्यति मे शो कः
कुम्भ र्णेवि बोधि ते
किं रि ष्याम्य हं ते
क्र तुल्य लेहि