६.४८.२१

ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ।
कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् ॥

अन्वयः

ते those, सहिताः collected together, विकृतम् of unnatural form, सुप्तम् sleeping on bed, विकीर्णम् scattered, पर्वतम् इव mountain like, महानिद्रम् in dead sleep, कुम्भकर्णम् Kumbhakarna, प्रत्यबोधयन् to awaken.

Summary

Those Rakshasas collected together started to awaken Kumbhakarna, who was like a scattered mountain in dead sleep.

पदच्छेदः

तेतद् (१.३)
तुतु (अव्ययः)
तंतद् (२.१)
विकृतंविकृत (√वि-कृ + क्त, २.१)
सुप्तंसुप्त (√स्वप् + क्त, २.१)
विकीर्णम्विकीर्ण (√वि-कृ + क्त, २.१)
इवइव (अव्ययः)
पर्वतम्पर्वत (२.१)
कुम्भकर्णंकुम्भकर्ण (२.१)
महानिद्रंमहत्–निद्रा (२.१)
सहिताःसहित (१.३)
प्रत्यबोधयन्प्रत्यबोधयन् (√प्रति-बोधय् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेतु तंविकृ तं सु प्तं
वि कीर्णमिर्व तम्
कुम्भ र्णं हा नि द्रं
हि ताः प्रत्य बो यन्