६.४८.२२

ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् ।
त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् ॥

पदच्छेदः

ऊर्ध्वरोमाञ्चिततनुंऊर्ध्व–रोमाञ्चित–तनु (२.१)
श्वसन्तम्श्वसत् (√श्वस् + शतृ, २.१)
इवइव (अव्ययः)
पन्नगम्पन्नग (२.१)
त्रासयन्तंत्रासयत् (√त्रासय् + शतृ, २.१)
महाश्वासैःमहत्–श्वास (३.३)
शयानंशयान (√शी + शानच्, २.१)
भीमदर्शनम्भीम–दर्शन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्ध्व रो माञ्चि नुं
श्वन्तमिन्न गम्
त्रा न्तं हा श्वा सैः
या नं भीर्श नम्