६.४८.२३

भीमनासापुटं तं तु पातालविपुलाननम् ।
ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम् ॥

पदच्छेदः

भीमनासापुटंभीम–नासा–पुट (२.१)
तंतद् (२.१)
तुतु (अव्ययः)
पातालविपुलाननम्पाताल–विपुल–आनन (२.१)
ददृशुर्ददृशुः (√दृश् लिट् प्र.पु. बहु.)
नैरृतव्याघ्रंनैरृत–व्याघ्र (२.१)
कुम्भकर्णंकुम्भकर्ण (२.१)
महाबलम्महत्–बल (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भी ना सापु टं तंतु
पा ताविपु ला नम्
दृ शु र्नैरृ व्या घ्रं
कुम्भ र्णं हा लम्