६.४८.३८

अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः ।
भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् ॥

अन्वयः

आश्वान् horses, उष्ट्रान् camels, खरान् donkeys, नागान् elephants, दण्डकशाङ्कुशैः with staffs whips and goads, आजघ्नुः urged, भेरीशङ्खमृदङ्गान् च kettle drums, conchs, clay tom toms, सर्वप्राणैः with all their might, अवादयन् pounded on him.

Summary

They urged horses, elephants, camels, and donkeys to pounce on him, whipping with staff, whips, and goads.

पदच्छेदः

अश्वान्अश्व (२.३)
उष्ट्रान्उष्ट्र (२.३)
खरान्नागाञ्खर (२.३)–नाग (२.३)
जघ्नुर्जघ्नुः (√हन् लिट् प्र.पु. बहु.)
दण्डकशाङ्कुशैःदण्ड–कशा–अङ्कुश (३.३)
भेरीशङ्खमृदङ्गांश्चभेरी–शङ्ख–मृदङ्ग (२.३)–च (अव्ययः)
सर्वप्राणैर्सर्व–प्राण (३.३)
अवादयन्अवादयन् (√वादय् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्वा नु ष्ट्रान्ख रा न्ना गा
ञ्ज घ्नु र्दण्ड शाङ्कु शैः
भे रीङ्खमृ ङ्गांश्च
र्व प्रा णै वा यन्