६.४८.४४

अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् ।
केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ।
न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ॥

अन्वयः

अन्ये others, भेरीः drums, समाजघ्नुः beat, अन्ये some others, महास्वनम् shouted at the pitch of their voice, चक्रुः started, अन्ये some others, केशान् hair, प्रलुलुपुः pulled, अन्ये some, कर्णौ ears, दशन्तिच bit.

M N Dutt

Others smote the kettle-drums, and others set up loud cries. And others cut off his hair, and others bit his ears.

Summary

While some were beating the drums, some shouted at the pitch of their voice, some started pulling his hair and some bit his ears.

पदच्छेदः

अन्येअन्य (१.३)
भेरीःभेरी (२.३)
समाजघ्नुर्समाजघ्नुः (√समा-हन् लिट् प्र.पु. बहु.)
अन्येअन्य (१.३)
चक्रुर्चक्रुः (√कृ लिट् प्र.पु. बहु.)
महास्वनम्महत्–स्वन (२.१)
केशान्केश (२.३)
अन्येअन्य (१.३)
प्रलुलुपुःप्रलुलुपुः (√प्र-लुप् लिट् प्र.पु. बहु.)
कर्णावन्येकर्ण (२.२)–अन्य (१.३)
दशन्तिदशन्ति (√दंश् लट् प्र.पु. बहु.)
(अव्ययः)
(अव्ययः)
कुम्भकर्णःकुम्भकर्ण (१.१)
पस्पन्देपस्पन्दे (√स्पन्द् लिट् प्र.पु. एक.)
महानिद्रावशंमहत्–निद्रा–वश (२.१)
गतःगत (√गम् + क्त, १.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
न्ये भे रीः माघ्नु न्येक्रु
र्म हास्व नम् के शा न्येप्रलुलु पुः
र्णा न्येन्ति कुम्भ
र्णः स्प न्दे हा नि द्रा शं तः