६.४८.४७

वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् ।
कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ॥

अन्वयः

वारणानाम् elephants, सहस्रम् a thousand, अस्य his, शरीरे body, प्रधावितम् walk over, तदा then, कुम्बकर्णः Kumbhakarna, बुद् ध्वा felt, स्पर्शंपरम् felt the touch, अबुध्यत not understand.

M N Dutt

Then when a thousand elephants rushed against his body, recovering his consciousness, he awoke.

Summary

A thousand elephants were made to walk over his body. Then Kumbhakarna felt the touch but did not understand.

पदच्छेदः

वारणानांवारण (६.३)
सहस्रंसहस्र (१.१)
तुतु (अव्ययः)
शरीरेशरीर (७.१)
ऽस्यइदम् (६.१)
प्रधावितम्प्रधावित (√प्र-धाव् + क्त, १.१)
कुम्भकर्णस्ततोकुम्भकर्ण (१.१)–ततस् (अव्ययः)
बुद्धःबुद्ध (√बुध् + क्त, १.१)
स्पर्शंस्पर्श (२.१)
परम्पर (२.१)
अबुध्यतअबुध्यत (√बुध् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा णा नां स्रंतु
री रे ऽस्यप्र धावि तम्
कुम्भ र्णस्त तो बु द्धः
स्प र्शं बुध्य