६.४८.६२

न नो देवकृतं किंचिद्भयमस्ति कदाचन ।
न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् ।
यादृशं मानुषं राजन्भयमस्मानुपस्थितम् ॥

अन्वयः

राजन् king, मानुषम् human, यादृशम् this kind, भयम् danger, अस्मान् for us, उपस्थितम् has arisen, तादृशम् the kind of, भयम् fear, दैत्यदानवेभ्योवा either from Daityas or Danavas, नास्तिहि not there.

M N Dutt

And never fear so come to us anywise from Daityas or Dānavas, as it has arrived from a man, O king.

Summary

"O King! This kind of fear from humans has not arisen for us either from Daityas or Danavas."

पदच्छेदः

(अव्ययः)
नोमद् (६.३)
देवकृतंदेव–कृत (√कृ + क्त, १.१)
किंचिद्कश्चित् (१.१)
भयम्भय (१.१)
अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
कदाचनकदाचन (अव्ययः)
(अव्ययः)
दैत्यदानवेभ्योदैत्य–दानव (५.३)
वावा (अव्ययः)
भयम्भय (१.१)
अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
हिहि (अव्ययः)
तादृशम्तादृश (१.१)
यादृशंयादृश (१.१)
मानुषंमानुष (१.१)
राजन्राजन् (८.१)
भयम्भय (१.१)
अस्मान्मद् (२.३)
उपस्थितम्उपस्थित (√उप-स्था + क्त, १.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
नो देकृ तं किं चिद्भस्ति
दा दैत्य दा वे भ्यो वा
स्तिहि तादृ शम् यादृ शं मा
नु षं रान्भ स्मानुस्थि तम्