६.४९.२४

ततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत् ।
विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ॥

पदच्छेदः

ततःततस् (अव्ययः)
परमसंभ्रान्तोपरम–संभ्रान्त (√सम्-भ्रम् + क्त, १.१)
रावणोरावण (१.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
विवृद्धःविवृद्ध (√वि-वृध् + क्त, १.१)
काञ्चनोकाञ्चन (१.१)
वृक्षःवृक्ष (१.१)
फलकालेफल–काल (७.१)
निकृत्यतेनिकृत्यते (√नि-कृत् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः सं भ्रा न्तो
रा णो वाक्यब्र वीत्
वि वृ द्धः काञ्च नो वृ क्षः
का लेनि कृत्य ते