६.४९.२५

न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ।
न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः ।
कालस्तु क्रियतामस्य शयने जागरे तथा ॥

अन्वयः

त्वम् by you, मिथ्यावचनः untrue, न च not be, संशयः न no doubt, स्वप्स्यत्येष sleep he must, अस्य his, शयने sleep, तथा like that, जागरे waking, कालः time, क्रियताम् may be fixed.

M N Dutt

Your words will never go for naught; sleep he will, without doubt. But do you appoint a time for his sleeping and one for his awaking,

Summary

"Your words will not become untrue, no doubt. Sleep, he must but waking time may be fixed."

पदच्छेदः

(अव्ययः)
नप्तारंनप्तृ (२.१)
स्वकंस्वक (२.१)
न्याय्यंन्याय्य (१.१)
शप्तुम्शप्तुम् (√शप् + तुमुन्)
एवंएवम् (अव्ययः)
प्रजापतेप्रजापति (८.१)
(अव्ययः)
मिथ्यावचनश्चमिथ्या (अव्ययः)–वचन (१.१)–च (अव्ययः)
त्वंत्वद् (१.१)
स्वप्स्यत्येषस्वप्स्यति (√स्वप् लृट् प्र.पु. एक.)–एतद् (१.१)
(अव्ययः)
संशयःसंशय (१.१)
कालस्तुकाल (१.१)–तु (अव्ययः)
क्रियताम्क्रियताम् (√कृ प्र.पु. एक.)
अस्यइदम् (६.१)
शयनेशयन (७.१)
जागरेजागर (७.१)
तथातथा (अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
प्ता रंस्व कं न्या य्यंप्तु मे वं
प्र जा ते मि थ्या श्च त्वं
स्व प्स्य त्ये सं यः का स्तुक्रि
तास्य ने जा रे था