६.४९.६

पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते ।
यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥

अन्वयः

महान् remarkable, असौ he is, एकः lone, अत्र there, पृथिव्याम् earth, केतुभूतः comet, दृश्यते appears, यम् him, दृष्टवा on seeing, सर्वे all, वानराः Vanaras, ततस्ततः hither and thither, विद्रवन्ति fleeing.

M N Dutt

And alone he seem like an ensign of the Earth; and seeing him the monkeys dart away hither and thither.

Summary

"He is seen here like a lone comet on earth. Seeing him the Vanaras are fleeing hither and thither."

पदच्छेदः

पृथिव्याःपृथिवी (६.१)
केतुभूतोकेतु–भूत (√भू + क्त, १.१)
ऽसौअदस् (१.१)
महान्महत् (१.१)
एकोएक (१.१)
ऽत्रअत्र (अव्ययः)
दृश्यतेदृश्यते (√दृश् प्र.पु. एक.)
यंयद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
वानराःवानर (१.३)
सर्वेसर्व (१.३)
विद्रवन्तिविद्रवन्ति (√वि-द्रु लट् प्र.पु. बहु.)
ततस्ततःततस् (अव्ययः)–ततस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पृ थि व्याः केतु भू तो ऽसौ
हा ने कोऽत्र दृश्य ते
यं दृ ष्ट्वा वा राः र्वे
विद्रन्तिस्त तः