६.५.१०

बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् ।
यदहं सा च वामोरुरेकां धरणिमाश्रितौ ॥

अन्वयः

अहम्: I, सा: her, वामोरूःच: of charming thighs, एकाम्: one, धरणिम्: land, आश्रितौइतियत्: this way seeking refuge, कामयानस्य: desiring, बहु: very much, एतेन: because of that, जीवितुम्: survival, शक्यम्: will be possible

M N Dutt

This is my only consolation, for which I draw my vital breath-that myself and she breathe on the same earth.

Summary

Me and Sita are seeking refuge on the same land indeed. Because of that only survival is possible for me, who is desiring for her very much.

पदच्छेदः

बह्वेतत्बहु (१.१)–एतद् (१.१)
कामयानस्यकामयान (√कामय् + शानच्, ६.१)
शक्यम्शक्य (१.१)
एतेनएतद् (३.१)
जीवितुम्जीवितुम् (√जीव् + तुमुन्)
यद्यत् (अव्ययः)
अहंमद् (१.१)
सातद् (१.१)
(अव्ययः)
वामोरूर्वामोरू (१.१)
एकांएक (२.१)
धरणिम्धरणि (२.१)
आश्रितौआश्रित (√आ-श्रि + क्त, १.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ह्वे त्का यास्य
क्य मे ते जीवि तुम्
हं सा वा मोरु
रे कांणि माश्रि तौ