६.५०.१७

भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् ।
मयैवं नोक्तपूर्वो हि कश्चिद्भ्रातः परंतप ।
त्वय्यस्ति मम च स्नेहः परा संभावना च मे ॥

अन्वयः

महाबाहो broad shouldered, भ्रात brother:, परन्तप scourge, अर्थे you are, सुदुष्करम् difficult, कर्म task, कुरु do, भ्रातः brother, मया my, कश्चित् indeed, एवम् in that way, न उक्तपूर्वःहि not asked you before.

M N Dutt

O long-armed one, do you perform your dearest acts in behalf of your brother. O subduer of enemies, I had never before said so to my brother.

Summary

"O broad shouldered brother! Do this task which is difficult for others. O Scourge of enemies! I have not asked you before for such a task."

पदच्छेदः

भ्रातुर्भ्रातृ (६.१)
अर्थेअर्थ (७.१)
महाबाहोमहत्–बाहु (८.१)
कुरुकुरु (√कृ लोट् म.पु. )
कर्मकर्मन् (२.१)
सुदुष्करम्सु (अव्ययः)–दुष्कर (२.१)
मयैवंमद् (३.१)–एवम् (अव्ययः)
नोक्तपूर्वो (अव्ययः)–उक्त (√वच् + क्त)–पूर्व (१.१)
हिहि (अव्ययः)
कश्चिद्कश्चित् (१.१)
भ्रातःभ्रातृ (८.१)
परंतपपरंतप (८.१)
त्वय्यस्तित्वद् (७.१)–अस्ति (√अस् लट् प्र.पु. एक.)
मममद् (६.१)
(अव्ययः)
स्नेहःस्नेह (१.१)
परापर (१.१)
संभावनासम्भावना (१.१)
(अव्ययः)
मेमद् (६.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
भ्रातु र्थे हा बा होकुरुर्म
सु दुष्क रम् यै वं नोक्त पू र्वोहि
श्चि द्भ्रा तः रं त्व य्यस्ति
स्ने हः रा सं भा ना मे