६.५१.२५

यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि ।
यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ॥

अन्वयः

मे to me, स्नेहः affection, अस्तिखलुयदि if at all it is there now, विक्रमम् valour, अवगच्छसिवा if you recognize, मम to me, एतत् this, कार्यम् action, ते you हृदि at heart, कार्यतमम् What ought to be done, मतंयदि if you deem it right, मम to me, अपनयजम् justified, दोषम् evil, विक्रमेण by valour, समीकुरु nullify.

Summary

"If at all there is any affection in you for me now, you recognize your strengths and think what action is justified in your heart. You may nullify the evil that sprung from my heart."

पदच्छेदः

यदियदि (अव्ययः)
खल्वस्तिखलु (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
मेमद् (६.१)
स्नेहोस्नेह (१.१)
भ्रातृत्वंभ्रातृ–त्व (२.१)
वावगच्छसिवा (अव्ययः)–अवगच्छसि (√अव-गम् लट् म.पु. )
यदियदि (अव्ययः)
वावा (अव्ययः)
कार्यम्कार्य (१.१)
एतत्एतद् (१.१)
तेत्वद् (६.१)
हृदिहृद् (७.१)
कार्यतमंकार्यतम (१.१)
मतम्मत (√मन् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि ल्वस्ति मे स्ने हो
भ्रा तृ त्वं वाच्छसि
दि वा कार्य मे त्ते
हृदि कार्य मं तम्