६.५३.१६

कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।
सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः ॥

अन्वयः

कुम्भकर्णवचः Kumbhakarna's words, श्रुत्वा having heard, रावणः Ravana, वाक्यम् words, अब्रवीत् spoke, शूलमुद्गरपाणिभिः trident, sword and bar in hand, सैन्यैः army, परिवृतः surrounded, गच्छ go.

Summary

Hearing Kumbhakarna's words Ravana said," Go with trident, sword and iron bar in hand surrounded by the army."

पदच्छेदः

कुम्भकर्णवचःकुम्भकर्ण–वचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
रावणोरावण (१.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
सैन्यैःसैन्य (३.३)
परिवृतोपरिवृत (√परि-वृ + क्त, १.१)
गच्छगच्छ (√गम् लोट् म.पु. )
शूलमुद्गलपाणिभिःशूल–मुद्गल–पाणि (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कुम्भर्ण चः श्रु त्वा
रा णो वाक्यब्र वीत्
सै न्यैःरिवृ तोच्छ
शू मुद्ग पाणि भिः