६.५३.४३

निष्पपात च गृध्रेऽस्य शूले वै पथि गच्छतः ।
प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत ॥

अन्वयः

पथि on the way, गच्छतः marching, अस्य his, शूले pike, गृध्रः eagle, निष्पपाप alighted, अस्य his, नयनम् eyes, प्रास्फुरत् twitched, सव्यः left, बाहुश्च shoulder, कम्पते throbbed.

M N Dutt

As he marched a vulture alighted on his dart. And his left eye throbbed and his left arm shook.

Summary

On the way as he was going an eagle alighted on his pike. His eyes twitched and left shoulder throbbed.

पदच्छेदः

निष्पपातनिष्पपात (√निः-पत् लिट् प्र.पु. एक.)
(अव्ययः)
गृध्रोगृध्र (१.१)
ऽस्यइदम् (६.१)
शूलेशूल (७.१)
वैवै (अव्ययः)
पथिपथिन् (७.१)
गच्छतःगच्छत् (√गम् + शतृ, ६.१)
प्रास्फुरन्नयनंप्रास्फुरत् (√प्र-स्फुर् लङ् प्र.पु. एक.)–नयन (१.१)
चास्य (अव्ययः)–इदम् (६.१)
सव्योसव्य (१.१)
बाहुर्बाहु (१.१)
अकम्पतअकम्पत (√कम्प् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

निष्प पा गृ ध्रेऽस्य
शू ले वैथिच्छ तः
प्रास्फुन्न नं चास्य
व्यो बाहुम्प