६.५३.४९

ते तस्य घोरं निनदं निशम्य; यथा निनादं दिवि वारिदस्य ।
पेतुर्धरण्यां बहवः प्लवंगा; निकृत्तमूला इव सालवृक्षाः ॥

अन्वयः

दिवि sky, वारिदस्य rumbling like, निनादंयथा sound, तस्य those, घोरम् dreadful, निनदम् roar, ते they, बहवः many, प्लवङ्गाः Vanaras, निकृत्तमूलाः whose roots have been severed, शालवृक्षाःइव like Sala trees, धरण्याम् पेतुः fell on ground.

M N Dutt

Hearing those terrible shouts like to the roaring of clouds in the welkin, innumerable monkeys dropped to the earth even as sāla trees that have their roots severed.

Summary

Hearing the dreadful roar of Kumbhakarna, that resembled the rumbling of clouds, many Vanaras fell on the ground like severed Sala trees.

पदच्छेदः

तेतद् (१.३)
तस्यतद् (६.१)
घोरंघोर (२.१)
निनदंनिनद (२.१)
निशम्यनिशम्य (√नि-शामय् + ल्यप्)
यथायथा (अव्ययः)
निनादंनिनाद (२.१)
दिविदिव् (७.१)
वारिदस्यवारिद (६.१)
पेतुर्पेतुः (√पत् लिट् प्र.पु. बहु.)
धरण्यांधरणी (७.१)
बहवःबहु (१.३)
प्लवंगाप्लवंग (१.३)
निकृत्तमूलानिकृत्त (√नि-कृत् + क्त)–मूल (१.३)
इवइव (अव्ययः)
सालवृक्षाःसाल–वृक्ष (१.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
तेस्य घो रंनि दंनिम्य
थानि ना दंदिवि वारिस्य
पे तुर्ध ण्यां वःप्ल वं गा
नि कृत्त मू ला सा वृ क्षाः