६.५४.८

ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः ।
निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ।
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः ॥

अन्वयः

ते those, वनौकसः forest rangers, निवृत्य turning back, सङ्कृद्दाः to hit, परमक्रुद्धाः extremely angry, समदाः who were determined, कुञ्चराःइव like elephants in rut, कुम्भकर्णम् at Kumbhakarna, निर्जघ्नुः to vanquish him.

M N Dutt

Ceasing from flight, the wood-rangers waxing, enraged, began to assail Kumbhakarņa, like to elephants in rut. And the exceedingly strong Kumbhakarna, attacked with towering mountain peaks and crags and trees with flowering top, did not shake.

Summary

Those forest rangers who were extremely enraged turned back to hit, determined like the elephants in rut went to vanquish Kumbhakarna.

पदच्छेदः

तेतद् (१.३)
निवृत्यनिवृत्य (√नि-वृत् + ल्यप्)
तुतु (अव्ययः)
संक्रुद्धाःसंक्रुद्ध (√सम्-क्रुध् + क्त, १.३)
कुम्भकर्णंकुम्भकर्ण (२.१)
वनौकसःवनौकस् (१.३)
निजघ्नुःनिजघ्नुः (√नि-हन् लिट् प्र.पु. बहु.)
परमक्रुद्धाःपरम–क्रुद्ध (√क्रुध् + क्त, १.३)
समदा (अव्ययः)–मद (१.३)
इवइव (अव्ययः)
कुञ्जराःकुञ्जर (१.३)
प्रांशुभिर्प्रांशु (३.३)
गिरिशृङ्गैश्चगिरि–शृङ्ग (३.३)–च (अव्ययः)
शिलाभिश्चशिला (३.३)–च (अव्ययः)
महाबलाःमहत्–बल (१.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
तेनि वृत्यतु सं क्रु द्धाः कुम्भ र्णं
नौ सःनि घ्नुः क्रु द्धाः
दा कुञ्ज राः प्रांशु भिर्गि
रि शृ ङ्गैश्चशि ला भिश्च हा लाः