६.५५.१०८

यैः सायकैः सालवरा निकृत्ता; वाली हतो वानरपुंगवश्च ।
ते कुम्भकर्णस्य तदा शरीरं; वज्रोपमा न व्यथयां प्रचक्रुः ॥

अन्वयः

यैः by that, सायकैः arrows, सालवराः Sala trees, निकृत्ताः cut down, वानरपुङ्गवः Vanara leaders, वाली च Vali also, हतः struck, ते that, तदा then, वज्रोपमम् like thunderbolt, कुम्भकर्णस्यशरीरम् Kumbhakarna's body, न व्यधयांप्रचक्रुः not able to affect him.

M N Dutt

Those shafts which had severed the seven stately salas, and, to boot, had slain Vāli—best of monkeys, they resembling the thunder itselfcould not impart any pain to Kumbhakarņa's body.

Summary

Those arrows which had cut down the Sala trees and the Vanara leader, Vali, which were like thunderbolts, did not affect Kumbhakarna's body.

पदच्छेदः

यैःयद् (३.३)
सायकैःसायक (३.३)
सालवरासाल–वर (१.३)
निकृत्तानिकृत्त (√नि-कृत् + क्त, १.३)
वालीवालिन् (१.१)
हतोहत (√हन् + क्त, १.१)
वानरपुंगवश्चवानर–पुंगव (१.१)–च (अव्ययः)
तेतद् (१.३)
कुम्भकर्णस्यकुम्भकर्ण (६.१)
तदातदा (अव्ययः)
शरीरंशरीर (२.१)
वज्रोपमावज्र–उपम (१.३)
(अव्ययः)
व्यथयांप्रचक्रुःव्यथयांप्रचक्रुः (√व्यथय् प्र.पु. बहु.)

छन्दः

इन्द्रवज्रा [११: ततजगग]

छन्दोविश्लेषणम्

१०११
यैः सा कैः सा रानि कृ त्ता
वा ली तो वा पुंश्च
ते कुम्भ र्णस्य दा री रं
ज्रो माव्य यांप्र क्रुः