६.५५.१५

नीलश्चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ।
तमापतन्तं संप्रेक्ष्य मुष्टिनाभिजघान ह ॥

पदच्छेदः

नीलश्चिक्षेपनील (१.१)–चिक्षेप (√क्षिप् लिट् प्र.पु. एक.)
शैलाग्रंशैल–अग्र (२.१)
कुम्भकर्णायकुम्भकर्ण (४.१)
धीमतेधीमत् (४.१)
तम्तद् (२.१)
आपतन्तंआपतत् (√आ-पत् + शतृ, २.१)
सम्प्रेक्ष्यसम्प्रेक्ष्य (√सम्प्र-ईक्ष् + ल्यप्)
मुष्टिनाभिजघानमुष्टि (३.१)–अभिजघान (√अभि-हन् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नी श्चि क्षे शै ला ग्रं
कुम्भ र्णा धी ते
मा न्तं सं प्रेक्ष्य
मुष्टि नाभि घा