६.५५.४६

तत्कुम्भकर्णस्य भुजप्रविद्धं; शूलं शितं काञ्चनदामजुष्टम् ।
क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां; बभञ्ज वेगेन सुतोऽनिलस्य ॥

अन्वयः

अनिलस्यसुतः son of windgod, क्षिप्रम् instantly, समुत्पत्य seizing, कुम्भकर्णस्य Kumbhakarna's, भुजप्रविद्धम् with his arms, शितम् shaft, काञ्चनदामजुष्टम् covered with chains of gold, तत् that, शूलम् pike, दोर्भ्याम् both hands, निगृह्य holding, वेगेन quickly, बभञ्ज broke.

M N Dutt

Then swiftly bounding up, the Wind-god's son, resisting that whetted dart fastened with golden chains, with his hands violently snapped it in twain.

Summary

Hanuman the son of windgod instantly seized Kumbhakarna with his arms, whose shaft was covered by chains and broke with both hands quickly.

पदच्छेदः

तत्तद् (२.१)
कुम्भकर्णस्यकुम्भकर्ण (६.१)
भुजप्रविद्धंभुज–प्रविद्ध (√प्र-व्यध् + क्त, २.१)
शूलंशूल (२.१)
शितंशित (√शा + क्त, २.१)
काञ्चनदामजुष्टम्काञ्चन–दामन्–जुष्ट (√जुष् + क्त, २.१)
क्षिप्रंक्षिप्रम् (अव्ययः)
समुत्पत्यसमुत्पत्य (√समुत्-पत् + ल्यप्)
निगृह्यनिगृह्य (√नि-ग्रह् + ल्यप्)
दोर्भ्यांदोस् (५.३)
बभञ्जबभञ्ज (√भञ्ज् लिट् प्र.पु. एक.)
वेगेनवेग (३.१)
सुतोसुत (१.१)
ऽनिलस्यअनिल (६.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
त्कुम्भ र्णस्यभुप्र वि द्धं
शू लंशि तं काञ्च दा जु ष्टम्
क्षि प्रं मु त्पत्यनि गृह्य दो र्भ्यां
ञ्ज वे गेसु तोऽनिस्य